वेदानां रचनाकाल:
- अक्षरम संस्कृतम्
- Dec 30, 2019
- 2 min read
वेदानां रचनाकालः
सृष्ट्युत्पत्ति प्रकरणे तग्वेदस्य पुरुषसूक्तस्य अष्टम-
मन्त्रस्यानुसारेण ऋगादीनां चतुर्णामपि वेदानाम् उत्पत्तिः
सृष्ट्युत्पत्तिकाले एव सिद्ध्यति । ज्यौतिषगणनानुसारेण
सृष्टयुत्पत्तिकालादारभ्य अद्यावधिपर्यन्तं 2010 सौरवर्षाणि,
तदनुसारेण 19558035 वर्षाणि व्यतीतानि इति निश्चीयते ।
इत्यं सनातनमान्यतानुसारेण ऋषिद्ृष्टानां वेदानाम् अपौरुषे-
यत्वम् अनादित्वमेव अंगीकरणीयः, किन्तु अनुसन्धानकुशलैः
पाश्चात्यैः भारतीयैश्च वेदानामपौरुषेयत्वम-नादित्वञ्च नैव
स्वीक्रियते । तेषां विदुषां मते ऋषिप्रणीतोऽयं वेदराशिः ।
एतेषां वैदिकमन्त्राणां रचनाकालस्तु सर्वथा अनुसन्धानविषयः
अस्त्येव । अत एव पाश्चात्याः भारतीयाश्च स्व-स्व बुद्ध्यनु-
सारेण वेदकालं निर्णेतुं यतन्ते तान् अनुसन्धान कुशलान्
अधिकृत्य अत्र कतिचन विचाराः प्रस्तूयन्ते-
1. मैक्समूलर-महोदयेन वैदिकसाहित्ये छन्द-मन्त्र -ब्राम्मण- सूत्रात्मकानि चत्वारि-युगानि स्वीकृतानि प्रत्येकयुगविकासाय तेन 200 वर्षस्य कालखण्डः स्वीकृतः । अस्य मान्यता अस्ति येत् शाक्यमुनेः बुद्धात् 600 वर्षपूर्वमेव, अर्थात् 1200 ई. पूर्वमेव छन्दोयुगस्य अस्तित्वम् आसीत् । इत्थम् ऋग्वेदस्य रचनाकालः 1200 + 2010 = 3210 वर्षेभ्यः पूर्वमेव भवितुं शक्नोति ।
2. वेंबर-महोदयस्य मतमस्ति यत् वेदाः कियत् प्राचीनाः सन्ति इति निश्चयेन वक्तुं नैव पार्यते, तथापि वक्तुमिदं ने शक्यते यत् वेदाः 1500 B.C. इति तिथेः प्राचीनाः तु सन्त्येव । अत्र कापि शंका नास्ति ।
3.जैकोबी-महोदयस्य वैदिकरचनाकालविषयकः सिद्धान्तः ज्योतिषशास्त्रावलम्बी दरीदृश्यते । अनेन महोदयेन
ऋग्वेदस्य मण्डूकसूक्तस्य ऋचाम् अधिकृत्य
ज्योतिषगणनानुसारेण वैदिकरचनाकालः 2500
B.C.स्वीकृतः ।
4. बाल-गंगाधर-तिलक-महोदयस्य वैदिककालविषयका
सिद्धान्तः अपि ज्यौतिषशास्त्रमेव अनुसरति । वसन्तसम्पातम्
(Vernal Equinox) अधिकृत्य लिखिते ओरायन (Orion)
नामके ग्रन्थे महापुरुषोऽयं स्वीकरोति यत् ऋग्वैदिकमन्त्राणां
रचनाकालः 4000 B.C. इत्यारभ्य 6000 B.C. यावत्
प्राचीनः भवितुं शक्नोति । पुनश्च स्वकीये 'आर्कटिक होम इन
द वेदाज' (Arctic Home in the Vedas) इति नामके ग्रन्थे तिलक महोदयः वैदिकरचनाकालः (10.000 B.C.) इति स्वीकरोति ।
5. पं. शंकर-बालकृष्ण-दीक्षित-महोदयः शतपथब्राह्मणस्य
एकं द्वे त्रीणि चत्वारि वा अन्यानि नक्षत्राणि, अथैता एव
भूयिष्ठा, यत् कृतिकास्तद् भूमानमेव एतदुपैति तस्मात
कृत्तिकास्वादधीत । एता ह वै प्राच्या दिशो न च्यवन्ते, सर्वाणि
ह वा अन्यानि नक्षत्राणि प्राच्या दिशः च्यवन्ते" (शतपथब्राह्मण 12-1-2) नक्षत्र-निर्देशमधिकृत्य ज्योतिषगणनया शतपथ ब्राह्मणस्य रचनाकालः 3000 B. C. इति स्वीकरोति । शतपथब्राह्मणादपि प्राचीनतरः ऋग्वेदः तस्य मते 3500 B.C. इति भवितुं शक्यते ।
6. विन्टरनित्ज-महोदयेन ब्राह्मणग्रन्थानां, पाणिनिव्या करणस्य, संस्कृतभाषायाः,
अशोककालिकशिलालेखभाषायाः । तथा वैदिकभाषायाः पारस्परिकतुलानात्मकाध्ययनेन ऋग्वेदस्यर रचनाकालः
4500 B.C. इत्यारभ्य 6000 B. C. इति कालस्य
मध्यवर्ती कालखण्डः स्वीकृतः । 7.अविनाशचन्द्रदास-महोदयेन वेदस्य रचनाकालः स्वकीये 'ऋग्वेदिक इण्डिया' (Rigvedic India) इति नामके ग्रन्थे अनेकलक्षवर्षपूर्वं स्वीक्रियते । अनेन महोदयेन आर्यावर्तत श्चतुर्दिक्षु चतुःसमुद्राणां स्थितिमाधारीकृत्य भौगोलिक गणनापद्धत्या वेदस्य रचनाकालः पंचबिंशतिसहस्रसम्वत्सरपूर्वं मन्यते ।
Comments