वैदिकसाहित्यम् (Vedic Literature)
- अक्षरम संस्कृतम्
- Dec 30, 2019
- 1 min read
नमस्ते !🙏
वैदिकसाहित्यम्
(Vedic Literature)
अखिल-भूमण्डलेऽस्मिन् समुपलब्धेषु विविधभाषागत प्राचीनग्रन्येषु वेदः सर्वेभ्यः प्राचीनतम इति सर्वरेव अंगीक्रियते ।सम्हिता-ब्राह्मणारण्यकोपनिषदभिप्रायेण वेदस्य चतर्विभागाः विद्यन्ते । एतेषु चतुएं विभागेष छन्दोबद्धः मन्त्ररूपी वैदिकदेवतास्तुतिपरको वैदिकमहर्षिभिः साक्षात्कृतो मुख्य विभागः संहिताशब्देन व्यवहियते । यथा ऋक्संहिता बजु: संहिता, सामसंहिताऽयर्वसंहिता च ऋक्संहितायां स्तुतिपरकमन्त्राणां, बजुःसंहितायां याजकीयानां मन्त्राणां, सामसंहितायां गायनपरकमन्त्राणाम्, अथर्वसंहितायां विविध विधविघ्न विनाशकाऽऽभिचारिकमन्त्राणाञ्च संग्रहः विद्यते' ॥ एतेषाम् ऋगादीनां चतुर्णामपि वेदानाम् आविर्भावः यज्ञपुरुषादेव अभवत् । भगवती श्रुतिरेवात्र प्रमाणम्-
तस्मायज्ञात्सर्वहुतः ऋचः सामानि जङ्ञिरे ।
छन्दांसि जज्ञिरे तस्मायजुस्तस्मादजायत ।
ऋक्. ॥ 10/90/8॥
यस्मादचो अपातक्षन यजुर्यस्मादपाकषन् ।
सामानि यस्य लोमानि अववाङ्गिरसो मुखम् ॥
स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥
अथर्व. ।10/7/20।।
विद्यन्ते धर्मादयः पुरुषार्था यैस्ते वेदाः' इति वहवृचुप्रातिशाख्ये
वेदशब्दस्यार्थ अभिहितः । “अपौरुषेवाक्यं । वेदः" इति सायणाचार्येण वेदस्य लक्षणं कृतम् ।"इष्टप्राप्त्यनिष्टपरिहारयोः अलौकिकं साधनो यो वेदयति स वेद' इत्यपि सायणाचार्येण महोदयेन ऋग्वेदभाष्यभूभिकायाम् अभिहितम् प्रमाणञ्च प्रस्तुतं. यथा-
प्रत्यक्षेणानुमित्या वा यस्तूपायो न विद्यते ।
एवं विदन्ति वेदेन तस्माद् वेदस्य वेदता ॥
वेदपदेन तु संहिता, ब्राह्मणम्, आरण्यकम्, उपनिषद् इति
चतुर्णा ग्रन्थानां बोधो भवति । संहिता छन्दोवद्धमन्त्रयुक्ता,
ब्राह्मणभागो गद्यात्मको यागादिवर्णनपरक, आरण्यकभागो
छन्दोबद्धमन्त्रयुक्तो गाथारूपो वा विद्यते. उपनिषद्भागे
तत्तत्संहितागत व्रह्मज्ञानादिविषयाणां वर्णनरूपेण संकलनम् । एते चत्वारो विभागाः चतुर्षु वेदेषु समुपलभ्यन्ते ।॥
धन्यवाद: !
Comments