ध्रुवचरितम्
- अक्षरम संस्कृतम्
- Feb 2, 2021
- 2 min read
ध्रुवचरितम्
पुरा स्वायम्भुवमनुवंशे उत्तानपादो नाम राजा बभूव । तस्य राज्ञः सुनीतिः सुरुचिरिति द्वे भार्ये बभूवतुः । तयोः सुनीतिः ज्येष्ठा सुरुचि: कनिष्ठा । तस्य नृपते:द्वयोः भार्ययोः प्रत्येकं पुत्रः समजायत । राजा सुनीतेः पुत्रस्य ध्रुव इति, सुरुचेः पुत्रस्य उत्तय इति च नामनी चकार । तत्पुत्रद्वयं भार्यद्वियं च राजि अनुरकतं बभूव । उत्तान- पादस्तु कनीयस्यां महिष्यां सुरुच्यामेव आसक्तमनाः अव- तंत । अनेन कारणेन तस्याः कुमार उत्तमो राज: अल्य- धिकं प्रीतिपात्रं आसीत् ।
एकदा उत्तानपादः सिंहासन उपविशन् अनतिदूरे विहरन्तौ स्वतनयो श्रुवोत्तमो पश्यन्नास्त । तदा तस्य कनीयसी महिषी सुरुचिरपि किचिद्द् रे अवर्तत । क्रीडि- त्वोपरतः अष्टवयस्कः उत्तमः एकान्ते उपविष्टं स्वपितरं वीक्ष्य प्रधाव्य तस्य अड्के उपाविशत् । तद् भ्राता ध्रुवोऽपि तमनुधावन् तथा कर्तुं पितुस्समीपं यावत् आजगाम तावत् सुरुचिः झठिति तं न्यवारयत् अबदच्च "रे ध्रुव ! तव गर्वेण अलम् । त्वं तथाविध भाग्यवान्न भवसि, यः पितु रुत्तानपादस्य अङ्के उपवेष्टुमर्हसि । यदि तादृशी इच्छा वर्तते तव, तहि अन्यस्मिन् जन्मनि मम पुत्रो भूत्वा तवेच्छां पूरय । इंदानी अस्मात् साहसात् विरम" इति ।
अष्टवयस्कोऽपि स ध्रुवः स्वविमातुः इदं परुषं वचनं आकर्ण्य अतिखिन्नमनाः किमपि प्रतिवक्तुं नाशक्तोत्, सुतरां लज्जितश्च तत्स्थानं परित्यज्य स्वमातुः सुनितेः अन्तःपुरं जगाम । स तत्र मातरं दृष्ट्वा मनःक्लेशेन लज्जया च किमपि वक्तुं अशक्नुवन् उच्चैः अरुदत् । तथा सदन्तं स्वतनयं सुनीतिमेधुरैवकियेः आदवाससामास । अथ्थ ध्रुव सुरुच्या कृतमनतं च निवेदयामास ।
स्वसुतवचनमाकण्यं क्षमार्थीका सा सुनीतिः किचि दिय विहस्य, "रे साकधो, श्रुव ! सुरुच्या यदुकतं तथुक्तमेव: सत राजा तस्पामेव अत्यन्तानुरक्तो वर्तते । तस्याः वचस्रि न कोऽपि दोषो विद्यते । किमिति तद्वचनं तव लज्जावहं भवति? तप प्रभावात् सर्वलोकपितुः श्रीमन्नारायणस्य अङ्कोपि प्राप्तुं शक्यसे । तत्पुरतः ते पितुः अंकस्य को महिमा ?" इति पुत्रं सान्त्वयामास।
एवं मात्रोपदिष्टः ध्रुवः महदरण्यं गत्वा भगवन्तं नारायणं तपसा आराध्युमैच्छत् । स तत्क्षणमेव मातरं आमंत्र्य तप कर्तुं वनं गच्छन्नास्त । मध्यमार्ग त्रिलोक- सञ्चारी सुरमुनिः नारदः ध्रुवं विलोक्य एवमपृच्छत् "वत्स, कस्त्वम् ? अतिबाल्ये मातरं पितरं च विहाय कुत्र प्रस्थितोऽसि ? " इति । ध्रुवः प्राह- "भगवन् ! अहं मनु वंशीयस्य राज्ञ. उत्तानपादस्य प्रथमाया: भार्यायाः सुनीतेः पुत्रः । ध्रुव इति मे नाम । मात्रोपदिष्ट: तपसा श्रीमन्ना- रायणं आराध्य तदुत्सङ्गे उपविश्य निरन्तरसुखं अनुभवितुं इच्छन् तपः कर्तुं महावनं प्रति प्रस्थितोऽस्मि " इति ।
नारदस्तु अष्टवयस्कस्य तस्य बालकस्य अमृतोपमो वाणीं निशम्य सुतरां विस्मित. स्वमनसि तस्य दृढनिश्चयं प्रशंसन् एवमवादीत् - "वत्स ! नपो नाम दुःखतमं कर्म,तदाचरणं न सुलभम् । विद्व सिंहव्यात्रभल्लकादिकि दुण्टमुगस्सेविते बने वासः कण्टतर । अतिवालस्त्वं तपः कर्त नाहसि । तत् गृहमेव प्रतिगच्छेति । इत्यं नारदेन निवा. रितोऽपि दृढचित्तो ध्रुवः तत् नानुमेने। ततो नारदः कञ्चन मन्त्रमुपदिश्य तपस्सिद्धये त न्वगृहात् । घबः नारदस्य आशिषं प्राप्य तं आभंत्र्य पुरतः किचिद्द र वने] गच्छन् सप्तर्षीन् अपश्यत् । तेऽपि स्थिरमति तं अभिनन्त "तवाभीष्टफलसिद्धिरस्तु" इति आशिरषो दत्वा अन्तर्दधिरे। एवं नारदेन सप्तर्षिभिश्च अनुगृहीत: श्रुवः अत्युग्रं अनि तरसाध्यं च तपश्चकार । अनेन तपसा आराधितो भववान सर्वलोकपिता श्रीमन्नारायण अतितुष्ट ध्रुवस्य समक्ष आविर्भूय वरान् ददौ । ध्रुवः यावदायुषं राज्यं पालयित्वा, पश्चात् आकाशे ध्रुवं पद प्राप । अद्यापि त्रुवनक्ष्रं आकाशे उत्तरदिग्भागे प्रकाशते ।
"उद्यमेनहि सिद्धयन्ति कार्याणि न मनोरथैः”
Comments